हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Gajendra Moksha (Srimad Bhagavatam) Part 1 – गजेन्द्र मोक्षः (श्रीमद्भागवतम्)


श्रीशुक उवाच –
आसीद्गिरिवरो राजन् त्रिकूट इति विश्रुतः ।
क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ १ ॥

तावता विस्तृतः पर्यक्त्रिभिः शृङ्गैः पयोनिधिम् ।
दिशश्च रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ २ ॥

अन्यैश्च ककुभः सर्वा रत्नधातु विचित्रितैः ।
नानाद्रुमलतागुल्मैः निर्घोषैः निर्झराम्भसाम् ॥ ३ ॥

सदानिमज्यमानाङ्घ्रिः समन्तात्पय ऊर्मिभिः ।
करोति श्यामलां भूमिं हरिन्मरकताश्मभिः ॥ ४ ॥

सिद्धचारणगन्धर्वैर्विद्याधर महोरगैः ।
किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः ॥ ५ ॥

यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया ।
अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया ॥ ६ ॥

नानारण्यपशुव्रात सङ्कुलद्रोण्यलङ्कृतः ।
चित्रद्रुमसुरोद्यान कलकण्ठ विहङ्गमः ॥ ७ ॥

सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः ।
देवस्त्रिमज्जनामोद सौरभाम्ब्वनिलैर्युतः ॥ ८ ॥

तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ।
उद्यानमृतुमन्नाम ह्याक्रीडं सुरयोषिताम् ॥ ९ ॥

सर्वतोऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमैः ।
मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ १० ॥

चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि ।
क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकैः ॥ ११ ॥

मधूकैस्तालसालैश्च तमालै रसनार्जुनैः ।
अरिष्टोदुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः ॥ १२ ॥

पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः ।
द्राक्षेक्षु रम्भाजम्बूभिर्बदर्यक्षाभयामलैः ॥ १३ ॥

बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकैरपि ।
तस्मिन्सरः सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४ ॥

कुमुदोत्पलकल्हार शतपत्रश्रियोर्जितम् ।
मत्तषट्पद निर्घुष्टं शकुन्तैः कलनिस्वनैः ॥ १५ ॥

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।
जलकुक्कुटकोयष्टि दात्यूहकलकूजितम् ॥ १६ ॥

मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः ।
कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् ॥ १७ ॥

कुन्दैः कुरवकाशोकैः शिरीषैः कूटजेङ्गुदैः ।
कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः ॥ १८ ॥

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः ।
शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः ॥ १९ ॥

तत्रैकदा तद्गिरिकाननाश्रयः
करेणुभिर्वारणयूथपश्चरन् ।
सकण्टकं कीचकवेणुवेत्रव-
-द्विशालगुल्मं प्ररुजन्वनस्पतीन् ॥ २० ॥

यद्गन्धमात्राद्धरयो गजेन्द्रा
व्याघ्रादयो व्यालमृगाश्च खड्गाः ।
महोरगाश्चापि भयाद्द्रवन्ति
सगौरकृष्णाः सरभाश्चमर्यः ॥ २१ ॥

वृका वराहा महिषर्क्षशल्या
गोपुच्छसालावृकमर्कटाश्च ।
अन्यत्र क्षुद्रा हरिणाः शशादयः
चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥

स घर्मतप्तः करिभिः करेणुभि-
-र्वृतो मदच्युत्कलभैरभिद्रुतः ।
गिरिं गरिम्णा परितः प्रकम्पयन्
निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥ २३ ॥

सरोऽनिलं पङ्कजरेणुरूषितं
जिघ्रन् विदूरान् मदविह्वलेक्षणः ।
वृतः स्वयूथेन तृषार्दितेन त-
-त्सरोवराभ्याशमथागमद्द्रुतम् ॥ २४ ॥

विगाह्य तस्मिन् अमृताम्बु निर्मलं
हेमारविन्दोत्पलरेणुवासितम् ।
पपौ निकामं निजपुष्करोद्धृतं
स्वात्मानमद्भिः स्नपयन्गतक्लमः ॥ २५ ॥

स पुष्करेणोद्धृतशीकराम्बुभि-
-र्निपाययन् संस्नपयन् यथा गृही ।
जिघ्रन् करेणुः कलभाश्च दुर्मना
ह्याचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥

तं तत्र कश्चिन्नृप दैवचोदितो
ग्राहो बलीयांश्चरणौ रुषाऽग्रहीत् ।
यदृच्छयैवं व्यसनं गतो गजो
यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥

तथाऽऽतुरं यूथपतिं करेणवो
विकृष्यमाणं तरसा बलीयसा ।
विचुक्रुशुर्दीनधियोऽपरे गजाः
पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥

नियुध्यतोरेवमिभेन्द्रनक्रयो-
-र्विकर्षतोरन्तरतो बहिर्मिथः ।
समाः सहस्रं व्यगमन् महीपते
सप्राणयोश्चित्रममंसतामराः ॥ २९ ॥

ततो गजेन्द्रस्य मनोबलौजसां
कालेन दीर्घेण महानभूद्व्ययः ।
विकृष्यमाणस्य जलेऽवसीदतो
विपर्ययोऽभूत्सकलं जलौकसः ॥ ३० ॥

इत्थं गजेन्द्रः स यदाऽऽप सङ्कटं
प्राणस्य देही विवशो यदृच्छया ।
अपारयन्नात्मविमोक्षणे चिरं
दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥

नमामि मे ज्ञातय आतुरं गजाः
कुतः करिण्यः प्रभवन्ति मोक्षितुम् ।
ग्राहेण पाशेन विधातुरावृतो
ह्यहं च तं यामि परं परायणम् ॥ ३२ ॥

यः कश्चनेशो बलिनोऽन्तकोरगा-
-त्प्रचण्डवेगादभिधावतो भृशम् ।
भीतं प्रपन्नं परिपाति यद्भया-
-न्मृत्युः प्रधावत्यरणं तमीमहे ॥ ३३ ॥

इति श्रीमद्भागवते महापुराणे अष्टमस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥


Sri Vishnu Stotras – श्री विष्णु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.